सामग्री पर जाएँ

मुख्यपृष्ठम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

शास्त्रीयलेखाः

भरतनाट्यम्

नाट्यशास्त्रम्नाट्यशास्त्रम् इत्येत्द्ग्रन्थस्य कर्ता भरतमुनिः। एवं चतुर्णाम् एतेषां भरतानां जन्मभूमिः, कर्मभूमिः च योऽयं देशः वर्तते भारतम् इति यथार्थाभिधानम् भजते। तथैव भरतमुनिना प्रणीतं भारतीयं नाट्यशास्त्रम् भवति। नाट्यवेदः इति नाट्यशास्त्रस्य पुरातनं नाम बभूव, यथा-

वेदोपवेदैः संबद्धो नाट्यवेदो महात्मना।
एवं भगवता सृष्टो ब्रह्मणा सर्ववेदिना ॥ ना.शा.१.१८.
नाट्यं भिन्नरुचेर्जनस्य बहुधाऽप्येकं समाराधनम्। कालिदासः, मालविकाग्निमित्रनाटके। (अधिकवाचनाय »)



आधुनिकलेखः

भगवान् शङ्करः सर्वेषां जीविनां कल्याणार्थं तीर्थक्षेत्रेषु लिङ्गरूपेण वसति इति उक्तम् अस्ति शिवपुराणे। यत्र यत्र भगवद्भक्ताः रक्षणार्थं भगवन्तम् आहूतवन्तः तत्र सर्वत्र भगवान् शिवः आविर्भूतः सन् ज्योतिर्लिङ्गरूपेण स्थितः। तादृशानि अगणितसंख्याकानि शिवस्थानानि सन्ति अस्माकं देशे। तादृशेषु असंख्येषु शिवस्थानेषु द्वादश ज्योतिर्लिङ्गानि सर्वप्रधानानि। (अधिकवाचनाय »)




ज्ञायते किं भवता?

अत्यधिकसङ्ख्यया सुभाषितानां सङ्ग्रहः कस्मिन् ग्रन्थे कृतः ? सुभाषितरत्नभाण्डागारग्रन्थे । (सामान्यतः १०,००० सुभाषितानि सङ्गृहीतानि।)



वार्ताः

संस्कृतवार्ताः
संस्कृतविकिपीडिया
  • उत्तराखण्ड-राज्ये संस्कृत-आयोगस्य स्थापना

​22 जुलाई 2026 तमे दिनाङ्के उत्तराखण्ड-राज्य-सर्वकारेण संस्कृत-भाषायाः प्रवर्धनाय 'संस्कृत-आयोगः' इति स्थापयितुं निर्णयः कृतः। अस्य आयोगस्य उद्देश्यं संस्कृत-शिक्षणस्य, अनुसन्धानस्य, प्राचीन-पाण्डुलिपीनां डिजिटल-करणस्य, भारतीय-ज्ञान-परम्परायाः तथा च एआई-क्षेत्रे संस्कृतस्य उपयोगस्य वर्धनम् अस्ति। मुख्यमन्त्रिणा पुष्कर-सिंह-धामिना 10 अगस्त 2026 पर्यन्तं विदूषां परामर्शः आहूतः।

​* प्रधानमन्त्रिणा एक्स-मञ्चे संस्कृत-सुभाषितं प्रेषितम्

​21 जुलाई 2026 तमे दिनाङ्के भारतस्य प्रधानमन्त्रिणा नरेन्द्र-मोदिना एक्स-मञ्चे एकं संस्कृत-सुभाषितं प्रकाशितम्। अत्र तेन एकाग्रतायाः सङ्कल्प-शक्तेः च महत्त्वं प्रतिपादितम्। "एकाग्रताथ सङ्कल्पः स्नायुवद् वर्द्धनक्षमौ। नित्याभ्यासप्रयोगाभ्यामधिकाधिकमृध्यतः॥" इति श्लोकम् उद्धृत्य तेन स्पष्टं कृतं यत् निरन्तराभ्यासेन एव मनुष्यस्य सङ्कल्प-शक्तिः वर्धते।

​* अस्ट्रेलियादेशस्य एडिलेड-नगरे पैसिफिक-संस्कृत-सम्मेलनम्

​20 जुलाई 2026 तमे दिनाङ्के अस्ट्रेलियादेशस्य एडिलेड-नगरे बीएपीएस श्रीसहजानन्दस्वामिमन्दिरे पञ्चदिवसीयं पैसिफिक-संस्कृत-सम्मेलनम् आयोजितम्। अस्मिन् सम्मेलने अस्ट्रेलिया-न्यूजीलैंड-देशाभ्यां सार्धत्रिशताधिकैः प्रतिनिधिभिः सहभागिता कृता, येषु 292 छात्राः आसन्। अत्र बीएपीएस सहजानन्दस्वामि-अनुसन्धान-संस्थानेन प्रचालितानाम् अन्तर्जालीय-संस्कृत-पाठ्यक्रमाणां महत्त्वं प्रदर्शितम् अस्ति। अनेन सम्मेलनेन संस्कृत-भाषायाः प्रसारः सञ्जातः।

अद्यतनं सुभाषितम्

सम्पत्सु महतां चित्तम् भवत्युत्पलकोमलम्।

आपत्सु च महाशैलशिलासङ्घातकर्कशम् ॥

नीतिशतकम् – ६६

सामान्यजनाः सौख्यकाले आनन्देन अत्युत्सुकाः भवन्ति। कष्टकाले निरुत्साहिनः सन्तः असहायकताम् अनुभवन्ति। किन्तु महापुरुषाः न तथा। सम्पत्तेः प्राप्तौ तेषां मनः कमलवत् कोमलं भवति। आपत्तौ ते किञ्चिदपि विचलिताः न भवन्ति। महापर्वतस्य शिला इव नितरां दृढं तिष्ठन्ति।


सहपरियोजनाः

"https://sa.wikipedia.org/w/index.php?title=मुख्यपृष्ठम्&oldid=488437" इत्यस्माद् प्रतिप्राप्तम्